२.४३.१

रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् ।
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥

अन्वयः

पुरुषव्याघ्रः foremost among men, रामोऽपि Rama also, पितुः father's, आज्ञाम् command, अनुस्मरन् recollecting, तेन by that, रात्रिशेषेणैव in the remaining part of the night, महत् vast, अन्तरम् distance, जगाम covered.

M N Dutt

That best of men, Rāma, remembering his father's commanded cleared a large tract of country before the night terminated.

Summary

Recollecting his father's command, Rama, the foremost among men, covered a long distance during the remaining part of the night.

पदच्छेदः

रामोराम (१.१)
ऽपिअपि (अव्ययः)
रात्रिशेषेणरात्रि–शेष (३.१)
तेनैवतद् (३.१)–एव (अव्ययः)
महद्महत् (२.१)
अन्तरम्अन्तर (२.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
पुरुषव्याघ्रःपुरुष–व्याघ्र (१.१)
पितुर्पितृ (६.१)
आज्ञाम्आज्ञा (२.१)
अनुस्मरन्अनुस्मरत् (√अनु-स्मृ + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा मोऽपि रात्रि शे षे
ते नैन्त रम्
गापुरु व्या घ्रः
पितु रा ज्ञा नुस्म रन्