२.४४.१७

पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च ।
भुजाभ्यां साधुवृत्ताभ्यां पीडयन्वाक्यमब्रवीत् ॥

पदच्छेदः

पद्भ्याम्पद् (३.२)
अभिगमाच्अभिगम (५.१)
चैव (अव्ययः)–एव (अव्ययः)
स्नेहसंदर्शनेनस्नेह–संदर्शन (३.१)
(अव्ययः)
भुजाभ्यांभुज (३.२)
साधुवृत्ताभ्यांसाधु–वृत्त (३.२)
पीडयन्पीडयत् (√पीडय् + शतृ, १.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्भ्याभि मा च्चै
स्ने संर्श ने
भु जा भ्यां साधु वृ त्ता भ्यां
पी न्वाक्यब्र वीत्