२.४४.२५

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥

अन्वयः

लक्ष्मणः Lakshmana, भूमौ on the ground, शयानस्य for sleeping, सभार्यस्य with his consort, तस्य his, पादौ feet, प्रक्षाल्य having washed, ततः then, अभ्येत्य having gone towards, वृक्षम् tree, उपाश्रितः took refuge, तस्थौ he stood.

M N Dutt

On Rāma having lain down on the ground along with his wife, Lakşmaņa washed their feet, and then remained stationed under the tree.

Summary

Lakshmana washed the feet of Rama who along with his consort lay upon the ground, and returned to take rest under the tree.

पदच्छेदः

तस्यतद् (६.१)
भूमौभूमि (७.१)
शयानस्यशयान (√शी + शानच्, ६.१)
पादौपाद (२.२)
प्रक्षाल्यप्रक्षाल्य (√प्र-क्षालय् + ल्यप्)
लक्ष्मणःलक्ष्मण (१.१)
सभार्यस्य (अव्ययः)–भार्या (६.१)
ततोततस् (अव्ययः)
ऽभ्येत्यअभ्येत्य (√अभ्या-इ + ल्यप्)
तस्थौतस्थौ (√स्था लिट् प्र.पु. एक.)
वृक्षम्वृक्ष (२.१)
उपाश्रितःउपाश्रित (√उपा-श्रि + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य भू मौ यास्य
पा दौ प्र क्षाल्यक्ष्म णः
भा र्यस्य तो ऽभ्येत्य
स्थौ वृक्षमु पाश्रि तः