२.४५.१०

यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।
तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥

अन्वयः

यः who, युधि in war, सर्वैः by all, देवासुरैः gods and demons, प्रसहितुम् to face him, न शक्यः not possible, सीतया सह with sita, तृणेषु on the blades of grass, सुखसंविष्टम् sleeping comfortably, तम् that Rama, पश्य see.

M N Dutt

How see him who is capable of bearing in battle the onslaught of the gods and the Asuras combined, sleeping in a cave on grass?

Summary

Look at that Rama whom all the gods and demons cannot face in war sleeps so comfortably on the grass with Sita.

पदच्छेदः

योयद् (१.१)–यद् (१.१)
(अव्ययः)–न (अव्ययः)
देवासुरैःदेव–असुर (३.३)–देव–असुर (३.३)
सर्वैःसर्व (३.३)–सर्व (३.३)
शक्यःशक्य (१.१)–शक्य (१.१)
प्रसहितुंप्रसहितुम् (√प्र-सह् + तुमुन्)–प्रसहितुम् (√प्र-सह् + तुमुन्)
युधियुध् (७.१)–युध् (७.१)
तंतद् (२.१)
पश्यपश्य (√पश् लोट् म.पु. )
सुखसंविष्टंसुख–संविष्ट (√सम्-विश् + क्त, २.१)
तृणेषुतृण (७.३)
सहसह (अव्ययः)
सीतयासीता (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यो दे वासु रैः र्वैः
क्यःप्रहि तुंयुधि
तंश्यसु सं वि ष्टं
तृ णेषु सी या