२.४५.१४

कौसल्या चैव राजा च तथैव जननी मम ।
नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥

अन्वयः

कौशल्या चैव Kausalya also, राजा च and the king, तथैव in the same way, मम जननी my mother, ते सर्वे all of them, इमाम् this, शर्वरीम् night, यदि जीवन्ति if they live, नाशंसे I do not expect.

M N Dutt

I can not hope that Kausalyā, the king, and my mother (Sumitrā) all those are yet alive.

Summary

I doubt whether all of them -- the king, Kausalya and my mother -- can survive this night.

पदच्छेदः

कौसल्याकौसल्या (१.१)–कौसल्या (१.१)
चैव (अव्ययः)–एव (अव्ययः)–च (अव्ययः)–एव (अव्ययः)
राजाराजन् (१.१)–राजन् (१.१)
(अव्ययः)–च (अव्ययः)
तथैवतथा (अव्ययः)–एव (अव्ययः)–तथा (अव्ययः)–एव (अव्ययः)
जननीजननी (१.१)–जननी (१.१)
मममद् (६.१)–मद् (६.१)
नाशंसे (अव्ययः)–आशंसे (√आ-शंस् लट् उ.पु. )
यदियदि (अव्ययः)
जीवन्तिजीवन्ति (√जीव् लट् प्र.पु. बहु.)
सर्वेसर्व (१.३)
तेतद् (१.३)
शर्वरीम्शर्वरी (२.१)
इमाम्इदम् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कौ ल्या चै रा जा
थै नी
ना शं सेदि जीन्ति
र्वे तेर्व रीमि माम्