२.४६.१३

इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा ।
दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् ॥

अन्वयः

तदा then, सारथिः charioteer, सुमन्त्रः Sumantra, इति thus, ब्रुवन् saying, दूरगतम् gone afar, आत्मसमम् like his own self, रामम् Rama, दृष्ट्वा seeing, दुःखार्तः agonised, चिरम् long time, रुरुदे cried.

M N Dutt

Having said this, the charioteer, Sumantra, seeing Rāma intent upon going to a distant land, wept for a long while in heaviness of heart.

Summary

Rama was like his (Sumantra's) own self. When Sumantra, the charioteer, saw that Rama was preparing to go afar for a long time, he started weeping aloud in deep distress.

पदच्छेदः

इतिइति (अव्ययः)
ब्रुवन्न्ब्रुवत् (√ब्रू + शतृ, १.१)
आत्मसमंआत्मन्–सम (२.१)
सुमन्त्रःसुमन्त्र (१.१)
सारथिस्सारथि (१.१)
तदातदा (अव्ययः)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
दूरगतंदूर–गत (√गम् + क्त, २.१)
रामंराम (२.१)
दुःखार्तोदुःख–आर्त (१.१)
रुरुदेरुरुदे (√रुद् लिट् प्र.पु. एक.)
चिरम्चिरम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तिब्रु न्नात्म मं
सु न्त्रः सा थिस्त दा
दृ ष्ट्वादु तं रा मं
दुः खा र्तोरुरु देचि रम्