२.४६.३४

दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ।
चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥

अन्वयः

प्रजाः people, अद्य today, दूरे at a distance, निवसन्तम् अपि although living, मानसेन in their minds, अग्रतः in front, स्थितम् staying, त्वाम् you, चिन्तयन्त्यः thinking, निराहाराः without food, कृताः done, नूनम् certainly.

M N Dutt

Thinking in their minds that you although actually at a great distance from them, are before them, the subjects (not finding you) will renounce food (and thus destroy themselves.)

Summary

Although living at a distance, the subjects feel in their minds that you are just ahead of them. Today they will certainly go without food, brooding over you.

पदच्छेदः

दूरेदूर (७.१)
ऽपिअपि (अव्ययः)
निवसन्तंनिवसत् (√नि-वस् + शतृ, २.१)
त्वांत्वद् (२.१)
मानसेनाग्रतःमानस (३.१)–अग्रतस् (अव्ययः)
स्थितम्स्थित (√स्था + क्त, २.१)
चिन्तयन्त्योचिन्तयत् (√चिन्तय् + शतृ, १.३)
ऽद्यअद्य (अव्ययः)
नूनंनूनम् (अव्ययः)
त्वांत्वद् (२.१)
निराहाराःनिराहार (१.३)
कृताःकृत (√कृ + क्त, १.३)
प्रजाःप्रजा (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दू रेऽपिनि न्तं त्वां
मा से नाग्र तःस्थि तम्
चिन्त न्त्योऽद्य नू नं त्वां
नि रा हा राःकृ ताःप्र जाः