२.४६.३५

आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने ।
रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः ॥

अन्वयः

त्वद्विप्रवासने at the time of your banishment, पौरैः by citizens, यः how much of, आर्तनादः cry of agony, मुक्तः released (raised), सरथम् with chariot, माम् me, निशाम्यैव on seeing, ततः then, शतगुणम् a hundredfold, कुर्युः will make.

M N Dutt

They will on seeing me with the car, burst out into lamentations exceeding a hundred times in bitterness those in which they indulged when you set out for the forest.

Summary

You have witnessed the cry of agony raised by the citizens at the time of your banishment. Now when they see the (empty) chariot, they will make it (raise their cry) a hundredfold.

पदच्छेदः

आर्तनादोआर्त–नाद (१.१)
हिहि (अव्ययः)
यःयद् (१.१)
पौरैर्पौर (३.३)
मुक्तस्मुक्त (√मुच् + क्त, १.१)
तद्विप्रवासनेतद्–विप्रवासन (७.१)
रथस्थंरथ–स्थ (२.१)
मांमद् (२.१)
निशाम्यैवनिशाम्य (√नि-शामय् + ल्यप्)–एव (अव्ययः)
कुर्युःकुर्युः (√कृ विधिलिङ् प्र.पु. बहु.)
शतगुणंशतगुण (२.१)
ततःततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्त ना दोहि यः पौ रै
र्मु क्त स्त द्विप्र वा ने
स्थं मांनि शा म्यै
कु र्युःगु णं तः