२.४६.४

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ।
गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥

अन्वयः

मित्रनन्दनः one who keeps his friends happy, सः सौमित्रि: that Lakshmana the son of Sumitra, रामस्य Rama's, वचः words, विज्ञाय knowing, गुहम् to Guha, सूतं च to the charioteer also, आमन्त्र्य calling, भ्रातुः brother's, अग्रतः in front, अतिष्ठत् stood.

M N Dutt

Hearing Rāma's words, that enhancer of the delight of friends, Sumitra's son, conveyed them to Guha and the charioteer; and then stood before his brother.

Summary

In response to Rama's desire, Lakshmana, son of Sumitra, one who brings joy to his friends, called Guha and the charioteer (Sumantra) and stood before his brother.

पदच्छेदः

विज्ञायविज्ञाय (√वि-ज्ञा + ल्यप्)
रामस्यराम (६.१)
वचःवचस् (२.१)
सौमित्रिर्सौमित्रि (१.१)
मित्रनन्दनःमित्र–नन्दन (१.१)
गुहम्गुह (२.१)
आमन्त्र्यआमन्त्र्य (√आ-मन्त्रय् + ल्यप्)
सूतंसूत (२.१)
(अव्ययः)
सोतद् (१.१)
ऽतिष्ठद्अतिष्ठत् (√स्था लङ् प्र.पु. एक.)
भ्रातुर्भ्रातृ (६.१)
अग्रतःअग्रतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि ज्ञा रास्य चः
सौ मि त्रि र्मित्रन्द नः
गु मान्त्र्य सू तं
सो ऽति ष्ठ द्भ्रातुग्र तः