२.४६.४४

न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना ।
राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥

अन्वयः

त्वया विना without you, मया by me, दुष्कृतकर्मणा by the wicked, महेन्द्रस्य Indra's, राजधानी यथा like the capital, सा अयोध्या that Ayodhya, प्रवेष्टुम् to enter, न हि शक्या not possible.

M N Dutt

Even as a doer of evil deeds cannot enter the metropolis of the mighty Indra, I am incapable of entering Ayodhyā without you.

Summary

Just as a sinner cannot enter the capital of Indra (heaven), it is impossible for me to enter Ayodhya without you.

पदच्छेदः

(अव्ययः)
हिहि (अव्ययः)
शक्याशक्य (१.१)
प्रवेष्टुंप्रवेष्टुम् (√प्र-विश् + तुमुन्)
सातद् (१.१)
मयायोध्यामद् (३.१)–अयोध्या (१.१)
त्वयात्वद् (३.१)
विनाविना (अव्ययः)
राजधानीराजधानी (१.१)
महेन्द्रस्यमहत्–इन्द्र (६.१)
यथायथा (अव्ययः)
दुष्कृतकर्मणादुष्कृत–कर्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि क्याप्र वे ष्टुं सा
या यो ध्यात्व यावि ना
रा धा नी हे न्द्रस्य
था दुष्कृर्म णा