२.४६.५१

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ।
कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ॥

अन्वयः

नगरीम् to the city of Ayodhya, गतम् gone, त्वाम् you, दृष्ट्वा on seeing, मे my, यवीयसी younger, जननी mother, कैकेयी Kaikeyi, रामः Rama, वनम् to the forest, गतः had gone, इति thus, प्रत्ययम् conviction, गच्छेत् will have.

M N Dutt

Seeing you returned to the city, my youngest mother Kaikeyi will believe that Rāma has gone to the woods.

Summary

When my younger mother Kaikeyi sees that you have returned to Ayodhya, she will believe that Rama has really gone to the forest.

पदच्छेदः

नगरींनगरी (२.१)
त्वांत्वद् (२.१)
गतंगत (√गम् + क्त, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
जननीजननी (१.१)
मेमद् (६.१)
यवीयसीयवीयस् (१.१)
कैकेयीकैकेयी (१.१)
प्रत्ययंप्रत्यय (२.१)
गच्छेद्गच्छेत् (√गम् विधिलिङ् प्र.पु. एक.)
इतिइति (अव्ययः)
रामोराम (१.१)
वनंवन (२.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रीं त्वां तं दृ ष्ट्वा
नी मे वी सी
कै के यी प्रत्य यं च्छे
दिति रा मो नं तः