२.४६.६

राममेव तु धर्मज्ञमुपगम्य विनीतवत् ।
किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥

अन्वयः

सूतः charioteer, प्राञ्जलि: with folded hands, विनीतवत् humbly, धर्मज्ञम् righteous, राममेव तु near Rama, उपगम्य going towards, अहम् I, किम् what, करवाणि do you want me to do , इति this, अब्रवीत् asked.

M N Dutt

Then coming forward in humble guise before Rāma cognizant of virtue, the charioteer said with joined hands, "What shall I do (now)?"

Summary

The charioteer (Sumantra) approached the righteous Rama and asked him with folded hands: What can I do?

पदच्छेदः

रामम्राम (२.१)
एवएव (अव्ययः)
तुतु (अव्ययः)
धर्मज्ञम्धर्म–ज्ञ (२.१)
उपगम्यउपगम्य (√उप-गम् + ल्यप्)
विनीतवत्विनीत (√वि-नी + क्त)–वत् (अव्ययः)
किम् (२.१)
अहंमद् (१.१)
करवाणीतिकरवाणि (√कृ लोट् उ.पु. )–इति (अव्ययः)
सूतःसूत (१.१)
प्राञ्जलिर्प्राञ्जलि (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा मेतु र्मज्ञ
मुम्यवि नी वत्
कि हं वा णीति
सू तः प्राञ्जलिब्र वीत्