२.४६.८

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः ।
सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ॥

अन्वयः

सारथिः charioteer, सः सुमन्त्रः Sumantra, आत्मानम् self, अभ्यनुज्ञातम् permitted to go, अवेक्षय having seen, आर्तः pained, पुरुषव्याघ्रम् (best) among men, इक्ष्वाकम् of the Ikshvakus, इदम् this, अब्रवीत् said.

M N Dutt

Finding himself thus commanded, the charioteer, Sumantra grieved at heart spoke to that best of men, the descendant of Ikşvāku.

Summary

Having been permitted to go, Sumantra, the distressed charioteer, said to Rama, the best among men, and a descendant of the Ikshvaku race:

पदच्छेदः

आत्मानंआत्मन् (२.१)
त्व्तु (अव्ययः)
अभ्यनुज्ञातम्अभ्यनुज्ञात (√अभ्यनु-ज्ञा + क्त, २.१)
अवेक्ष्यार्तःअवेक्ष्य (√अव-ईक्ष् + ल्यप्)–आर्त (१.१)
तद् (१.१)
सारथिःसारथि (१.१)
सुमन्त्रःसुमन्त्र (१.१)
पुरुषव्याघ्रम्पुरुष–व्याघ्र (२.१)
ऐक्ष्वाकम्ऐक्ष्वाक (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्मा नं त्वभ्य नु ज्ञा
वे क्ष्या र्तः सा थिः
सु न्त्रःपुरु व्याघ्र
मै क्ष्वामिब्र वीत्