२.४८.१

ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम् ।
विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे ॥

अन्वयः

ते they (Rama, Sita and Lakshmana), शिवाम् auspicious, रजनीम् night, तस्मिन् that, महावृक्षे big tree, उषित्वा having remained, विमले when the bright, सूर्ये Sun, अभ्युदिते had risen, तस्मात् देशात् from that region, प्रतस्थिरे set out.

M N Dutt

Having passed the auspicious night underneath that might tree, they, when the sun had risen in unclouded splendour, went away from that place.

Summary

They (Rama, Sita and Lakshmana) spent that auspicious night under that great tree and set out from there after the bright sun rose.

पदच्छेदः

तेतद् (१.३)
तुतु (अव्ययः)
तस्मिन्तद् (७.१)
महावृक्षमहत्–वृक्ष (७.१)
उषित्वाउषित्वा (√वस् + क्त्वा)
रजनींरजनी (२.१)
शिवाम्शिव (२.१)
विमलेविमल (७.१)
ऽभ्युदितेअभ्युदित (√अभ्युत्-इ + क्त, ७.१)
सूर्येसूर्य (७.१)
तस्माद्तद् (५.१)
देशात्देश (५.१)
प्रतस्थिरेप्रतस्थिरे (√प्र-स्था लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेतु स्मिन्म हा वृक्ष
षि त्वा नींशि वाम्
वि लेऽभ्युदि ते सू र्ये
स्मा द्दे शात्प्रस्थि रे