२.४८.१०

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ ।
सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥

अन्वयः

ततः then, सीतया by Sita, अनुगतौ followed, वीरौ those two heroes, आश्रमम् hermitage, आसाद्य having reached, मुनेः ascetic's, दर्शनकाङ्क्षिणौ wishing to see, दूरादेव at a distance, अवतस्थतुः stood.

M N Dutt

Arriving at the hermitage, the heroes desirous of seeing the ascetic, stood at a distance with Sītā behind them.

Summary

Thereafter the two heroes followed by Sita arrived at the hermitage and, wishing to see the sage, waited at a distance.

पदच्छेदः

ततस्ततस् (अव्ययः)
त्व्तु (अव्ययः)
आश्रमम्आश्रम (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
मुनेर्मुनि (६.१)
दर्शनकाङ्क्षिणौदर्शन–काङ्क्षिन् (१.२)
सीतयानुगतौसीता (३.१)–अनुगत (√अनु-गम् + क्त, १.२)
वीरौवीर (१.२)
दूराद्दूर (५.१)
एवावतस्थतुःएव (अव्ययः)–अवतस्थतुः (√अव-स्था लिट् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त्वाश्र मा साद्य
मु ने र्दर्श काङ्क्षि णौ
सी यानु तौ वी रौ
दू रा दे वास्थ तुः