२.५.११

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥

अन्वयः

ततः thereafter, राज्ञः king's, गुरुः preceptor, सः he, (Vasistha), रामेण by Rama, यथावत् duly, अर्चितः honoured, काकुत्स्थम् the descendant of Kakutstha (Rama), अभ्यनुज्ञाप्य having taken leave, रामनिवेशनात् from the abode of Rama, ययौ departed.

Summary

Thereafter, Vasistha, preceptor of the king duly honoured by the descendant of Kakutstha (Rama) left his abode.

पदच्छेदः

ततोततस् (अव्ययः)
यथावद्यथावत् (अव्ययः)
रामेणराम (३.१)
तद् (१.१)
राज्ञोराजन् (६.१)
गुरुर्गुरु (१.१)
अर्चितःअर्चित (√अर्चय् + क्त, १.१)
अभ्यनुज्ञाप्यअभ्यनुज्ञाप्य (√अभ्यनु-ज्ञापय् + ल्यप्)
काकुत्स्थंकाकुत्स्थ (२.१)
ययौययौ (√या लिट् प्र.पु. एक.)
रामनिवेशनात्राम–निवेशन (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो था द्रा मे
रा ज्ञोगुरुर्चि तः
भ्य नु ज्ञाप्य का कु त्स्थं
यौ रानि वे नात्