२.५.१५

वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः ।
बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥

अन्वयः

अयोध्यायाम् in the city of Ayodhya, राजमार्गाः royal highways, समन्ततः on all sides, बृन्दबृन्दैः crowds of, कुतूहलजनैः by curious people, वृताः surrounded, अभिसम्बाधाः बभूवु: were jammed.

Summary

The royal highways in the city of Ayodhya were jammed on all sides with groups of curious people.

पदच्छेदः

वृन्दवृन्दैर्वृन्द–वृन्द (३.३)
अयोध्यायांअयोध्या (७.१)
राजमार्गाःराजमार्ग (१.३)
समन्ततःसमन्ततः (अव्ययः)
बभूवुर्बभूवुः (√भू लिट् प्र.पु. बहु.)
अभिसंबाधाःअभिसंबाध (१.३)
कुतूहलजनैर्कुतूहल–जन (३.३)
वृताःवृत (√वृ + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वृन्द वृ न्दै यो ध्या यां
रा मा र्गाःन्त तः
भूवुभि सं बा धाः
कु तू नैर्वृ ताः