२.५.२१

सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः ।
समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥

अन्वयः

सः he, सिताभ्रशिखरप्रख्यम् looking like the peak of a mountain covered with white clouds, प्रासादम् royal palace, अधिरुह्य having ascended, बृहस्पतिः Brihaspati, शक्रेणेव like Indra, नरेन्द्रेण with king, समीयाय met.

Summary

Having ascended the royal palace resembling the peak of a mountain covered with white clouds, Vasistha approached the king like Brihaspati meeting Indra.

पदच्छेदः

सिताभ्रशिखरप्रख्यंसित–अभ्र–शिखर–प्रख्या (२.१)
प्रासादम्प्रासाद (२.१)
अधिरुह्यअधिरुह्य (√अधि-रुह् + ल्यप्)
सःतद् (१.१)
समियायसमियाय (√सम्-इ लिट् प्र.पु. एक.)
नरेन्द्रेणनरेन्द्र (३.१)
शक्रेणेवशक्र (३.१)–इव (अव्ययः)
बृहस्पतिःबृहस्पति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सि ताभ्रशि प्र ख्यं
प्राधि रुह्य सः
मि या रे न्द्रे
क्रे णेबृस्प तिः