२.५.६

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।
ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥

अन्वयः

मनीषिणः sagacious Vasistha's, रथाभ्याशम् near the chariot, त्वरमाणः hastening steps, अभ्येत्य having approached, ततः thereafter, रथात् from the chariot, स्वयम् personally , परिगृह्य holding(his hand), अवतारयामास got him alighted.

Summary

Hastening with rapid strides, Rama approached the chariot of the sagacious Vasistha and personally helped him alight from the chariot.

पदच्छेदः

अभ्येत्यअभ्येत्य (√अभ्या-इ + ल्यप्)
त्वरमाणश्त्वरमाण (√त्वर् + शानच्, १.१)
(अव्ययः)
रथाभ्याशंरथ–अभ्याश (२.१)
मनीषिणःमनीषिन् (६.१)
ततोततस् (अव्ययः)
ऽवतारयामासअवतारयामास (√अव-तारय् प्र.पु. एक.)
परिगृह्यपरिगृह्य (√परि-ग्रह् + ल्यप्)
रथात्रथ (५.१)
स्वयम्स्वयम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्ये त्यत्व माश्च
था भ्या शं नीषि णः
तोऽव ता या मा
रि गृह्य थात्स्व यम्