२.५०.११

ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।
रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥

अन्वयः

तत: then, सीतयासह with Sita, पादचारेण walking on foot, गच्छन्तौ going, तौ both (Rama and Lakshmana), रम्यम् beautiful, मनोरमम् delightful, चित्रकूटं शैलम् Chitrakuta mountain, आसेदतुः reached.

M N Dutt

Then they proceeding on foot along with Sītā, arrived at the charming and beautiful mountain Citrakuta.

Summary

Then they both along with Sita walked to that lovely, delightful Chitrakuta mountain.

पदच्छेदः

ततस्ततस् (अव्ययः)
तौतद् (१.२)
पादचारेणपाद–चार (३.१)
गच्छन्तौगच्छत् (√गम् + शतृ, १.२)
सहसह (अव्ययः)
सीतयासीता (३.१)
रम्यम्रम्य (२.१)
आसेदतुःआसेदतुः (√आ-सद् लिट् प्र.पु. द्वि.)
शैलंशैल (२.१)
चित्रकूटंचित्रकूट (२.१)
मनोरमम्मनोरम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तौ पा चा रे
च्छ न्तौ सी या
म्य मा से तुः शै लं
चित्र कू टं नो मम्