२.५०.२२

सुरम्यमासाद्य तु चित्रकूटं; नदीं च तां माल्यवतीं सुतीर्थाम् ।
ननन्द हृष्टो मृगपक्षिजुष्टां; जहौ च दुःखं पुरविप्रवासात् ॥

अन्वयः

सुरम्यम् marvellous, चित्रकूटम् mount Chitrakuta, आसाद्य having reached, सुतीर्थाम् with excellent holy places, मृगपक्षिजुष्टाम् full of animals and birds, ताम् that, माल्यवतीं नदीं च that Malyavati river, हृष्ट: filled with delight, ननन्द rejoiced, पुरविप्रवासात् banishment from the city, दुखम् sorrow, जहौ च left.

M N Dutt

And having come to the charming Citrakuta and the river Mālyavatī furnished with excellent bathing places, and haunted by beasts and fowls, they rejoiced with glad hearts, and forsook the grief incident to their exile from the city.

पदच्छेदः

सुरम्यम्सु (अव्ययः)–रम्य (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
तुतु (अव्ययः)
चित्रकूटंचित्रकूट (२.१)
नदींनदी (२.१)
(अव्ययः)
तांतद् (२.१)
माल्यवतींमाल्यवती (२.१)
सुतीर्थाम्सु (अव्ययः)–तीर्थ (२.१)
ननन्दननन्द (√नन्द् लिट् प्र.पु. एक.)
हृष्टोहृष्ट (√हृष् + क्त, १.१)
मृगपक्षिजुष्टांमृग–पक्षिन्–जुष्ट (√जुष् + क्त, २.१)
जहौजहौ (√हा लिट् प्र.पु. एक.)
(अव्ययः)
दुःखंदुःख (२.१)
पुरविप्रवासात्पुर–विप्रवास (५.१)

छन्दः

उपेन्द्रवज्रा [११: जतजगग]

छन्दोविश्लेषणम्

१०११
सुम्य मा साद्यतु चित्र कू टं
दीं तां माल्य तींसु ती र्थाम्
न्द हृ ष्टोमृक्षि जु ष्टां
हौ दुः खंपु विप्र वा सात्