२.५१.१०

शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् ।
हताः स्म खलु ये नेह पश्याम इति राघवम् ॥

अन्वयः

ये all of us, इह here, राघवम् Rama, न पश्यामः unable to see, हताः स्म खलु indeed we are lost (deprived), इति thus saying, बृन्दम् बृन्दम् in groups, तिष्ठताम् standing, तेषाम् their, वचः words, शुश्राव च also heard.

Summary

He saw them gathering in groups, saying, Henceforth we will not be able to see Rama and without him, we are lost indeed.

पदच्छेदः

शुश्रावशुश्राव (√श्रु लिट् प्र.पु. एक.)
(अव्ययः)
वचस्वचस् (२.१)
तेषांतद् (६.३)
वृन्दंवृन्द (२.१)
वृन्दंवृन्द (२.१)
(अव्ययः)
तिष्ठताम्तिष्ठत् (√स्था + शतृ, ६.३)
हताःहत (√हन् + क्त, १.३)
स्मस्म (अव्ययः)
खलुखलु (अव्ययः)
येयद् (१.३)
नेह (अव्ययः)–इह (अव्ययः)
पश्यामपश्यामः (√दृश् लट् उ.पु. द्वि.)
इतिइति (अव्ययः)
राघवम्राघव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शु श्रा स्ते षां
वृ न्दं वृ न्दं तिष्ठ ताम्
ताःस्मलु ये ने
श्याति रा वम्