२.५१.११

दानयज्ञविवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥

अन्वयः

दानयज्ञविवाहेषु in acts of charity, sacrifices and weddings, महत्सु in great, समाजेषु च assemblies also, अन्तरा in their midst, धार्मिकम् righteous, रामम् Rama, पुनः again, जातु ever, न द्रक्ष्यामः will not see.

M N Dutt

We shall no longer see the righteous Rāma in the midst of mighty assemblies engaged in charity, sacrifice or nuptial rites.

Summary

No longer will we see Rama at sacrifices, weddings, great assemblies and at places of charitable activity.

पदच्छेदः

दानयज्ञविवाहेषुदान–यज्ञ–विवाह (७.३)
समाजेषुसमाज (७.३)
महत्सुमहत् (७.३)
(अव्ययः)
(अव्ययः)
द्रक्ष्यामःद्रक्ष्यामः (√दृश् लृट् उ.पु. द्वि.)
पुनर्पुनर् (अव्ययः)
जातुजातु (अव्ययः)
धार्मिकंधार्मिक (२.१)
रामम्राम (२.१)
अन्तराअन्तरा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दाज्ञवि वा हेषु
मा जेषुत्सु
द्र क्ष्या मःपु र्जातु
धार्मि कं रान्त रा