२.५१.१७

सह रामेण निर्यातो विना राममिहागतः ।
सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥

अन्वयः

रामेण सह with Rama, निर्यातः went out, विना रामम् without Rama, इह here, आगतः returned, सूतः charioteer, शोचन्तीम् worrying, कौशल्याम् Kausalya, किं नाम what can, प्रतिवक्ष्यति will he say?

M N Dutt

Going in company with Rāma, and returning without him, what will the charioteer answer Kausalya bewailing (for her son)?

Summary

The charioteer left with Rama and returned without him. What can he say to the wailing Kausalya?

पदच्छेदः

सहसह (अव्ययः)
रामेणराम (३.१)
निर्यातोनिर्यात (√निः-या + क्त, १.१)
विनाविना (अव्ययः)
रामम्राम (२.१)
इहागतःइह (अव्ययः)–आगत (√आ-गम् + क्त, १.१)
सूतःसूत (१.१)
किं (१.१)
नामनाम (अव्ययः)
कौसल्यांकौसल्या (२.१)
शोचन्तींशोचत् (√शुच् + शतृ, २.१)
प्रतिवक्ष्यतिप्रतिवक्ष्यति (√प्रति-वच् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा मे नि र्या तो
वि ना रामि हा तः
सू तः किं ना कौ ल्यां
शो न्तींप्रतिक्ष्यति