२.५१.२९

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।
पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः ॥

अन्वयः

सर्वाः all, ताः स्त्रियः those women, एवम् thus, विलपतीम् lamenting, भुवि पतिताम् fallen on the ground, कौशल्याम् Kausalya, दृष्ट्वा having seen, पतिं च also their husband, अवेक्ष्य having seen, सुस्वरम् in chorus, रुरुदुः wailed loudlly.

M N Dutt

Behoiding Kausalyā fallen on the ground bewailing, as also their husband, the ladies seated around, began to Lament,

Summary

All those women saw weeping Kausalya as well as their husband fallen on the ground and wailed loudly in a chorus.

पदच्छेदः

एवंएवम् (अव्ययः)
विलपतींविलपत् (√वि-लप् + शतृ, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
कौसल्यांकौसल्या (२.१)
पतितांपतित (√पत् + क्त, २.१)
भुविभू (७.१)
पतिंपति (२.१)
चावेक्ष्य (अव्ययः)–अवेक्ष्य (√अव-ईक्ष् + ल्यप्)
ताःतद् (१.३)
सर्वाःसर्व (१.३)
सस्वरं (अव्ययः)–स्वर (२.१)
रुरुदुःरुरुदुः (√रुद् लिट् प्र.पु. बहु.)
स्त्रियःस्त्री (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंवि तीं दृ ष्ट्वा
कौ ल्यांति तांभुवि
तिं चा वेक्ष्य ताः र्वाः
स्व रंरुरु दुःस्त्रि यः