२.५१.८

तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् ।
अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ॥

अन्वयः

अहम् I, गङ्गायाम् river Ganga, राघवम् Rama, आपृच्छ्य having taken leave, धार्मिकेण by the righteous, महात्मना great (Rama), अनुज्ञातः having been permitted, निवृत्तः अस्मि I have returned, तेषाम् to them, शशंस said.

Summary

I took leave of the great, righteous Rama on the bank of the Ganga and have returned with his permission. (replied Sumantra).

पदच्छेदः

तेषांतद् (६.३)
शशंसशशंस (√शंस् लिट् प्र.पु. एक.)
गङ्गायाम्गङ्गा (७.१)
अहम्मद् (१.१)
आपृच्छ्यआपृच्छ्य (√आ-प्रच्छ् + ल्यप्)
राघवम्राघव (२.१)
अनुज्ञातोअनुज्ञात (√अनु-ज्ञा + क्त, १.१)
निवृत्तोनिवृत्त (√नि-वृत् + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
धार्मिकेणधार्मिक (३.१)
महात्मनामहात्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षां शं ङ्गा या
मा पृच्छ्य रा वम्
नु ज्ञा तोनि वृ त्तोऽस्मि
धार्मि के हात्म ना