२.५२.११

अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।
अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥

अन्वयः

महाराज O great king, राघवः the descendant of the Raghu race (Rama), धर्ममेव righteousness also, अनुपालयन् guarding, अञ्जलिम् with folded hands, कृत्वा having set, शिरसा bowing his head, अभिप्रणम्य च offering salutations, माम् to me, अब्रवीत् said.

Summary

With palms folded and head bowed, O great king Rama offered his salutations to you in confirmity with righteousness and said to me:

पदच्छेदः

अब्रवीन्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
मांमद् (२.१)
महाराजमहत्–राज (८.१)
धर्मम्धर्म (२.१)
एवानुपालयन्एव (अव्ययः)–अनुपालयत् (√अनु-पालय् + शतृ, १.१)
अञ्जलिंअञ्जलि (२.१)
राघवःराघव (१.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
शिरसाभिप्रणम्यशिरस् (३.१)–अभिप्रणम्य (√अभिप्र-नम् + ल्यप्)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र वी न्मां हा रा
र्म मे वानु पा यन्
ञ्ज लिं रा वः कृ त्वा
शि सा भिप्रम्य