२.५२.१७

इत्येवं मां महाराज ब्रुवन्नेव महायशाः ।
रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ॥

अन्वयः

महाराज O king, महायशाः renowned, राजीवताम्राक्षः with red lotuslike eyes, रामः Rama, माम् to me, इत्येवम् thus, ब्रुवन्नेव while saying, भृशम् copious, अश्रूणि tears, अवर्तयत् shed.

Summary

While saying this the red lotuslike eyes of illustrious Rama streamed with tears, O maharaja

पदच्छेदः

इत्य्इति (अव्ययः)
एवंएवम् (अव्ययः)
मांमद् (२.१)
महाराजमहत्–राज (८.१)
ब्रुवन्न्ब्रुवत् (√ब्रू + शतृ, १.१)
एवएव (अव्ययः)
महायशाःमहत्–यशस् (१.१)
रामोराम (१.१)
राजीवताम्राक्षोराजीव–ताम्र–अक्ष (१.१)
भृशम्भृशम् (अव्ययः)
अश्रूण्य्अश्रु (२.३)
अवर्तयत्अवर्तयत् (√वर्तय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये वं मां हा रा
ब्रु न्ने हा शाः
रा मो रा जी ता म्रा क्षो
भृ श्रूण्यर्त यत्