२.५२.१८

लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन्वाक्यमब्रवीत् ।
केनायमपराधेन राजपुत्रो विवासितः ॥

अन्वयः

लक्ष्मणस्तु Lakshmana, सुसङ्कृद्धः mighty angry, निश्श्वसन् sighing, वाक्यम् words, अब्रवीत् said, अयम् this, राजपुत्रः king's son, केन by what, अपराधेन offence, विवासितः has been banished?

M N Dutt

Thereupon Lakşmaņa waxing wroth, breathing hard, said, For what fault of his has the Prince been banished?

Summary

But Lakshmana, seething with anger and sighing said, 'For what offence has this king's son been banished'?

पदच्छेदः

लक्ष्मणस्लक्ष्मण (१.१)
तुतु (अव्ययः)
सुसंक्रुद्धोसु (अव्ययः)–संक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
निःश्वसन्निःश्वसत् (√निः-श्वस् + शतृ, १.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
केनायम् (३.१)–इदम् (१.१)
अपराधेनअपराध (३.१)
राजपुत्रोराजन्–पुत्र (१.१)
विवासितःविवासित (√वि-वासय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्मस्तुसु सं क्रु द्धो
निःश्व न्वाक्यब्र वीत्
के ना रा धे
रा पु त्रोवि वासि तः