२.५३.१७

भवितव्यतया नूनमिदं वा व्यसनं महत् ।
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥

अन्वयः

सूत O charioteer, वा otherwise, इदम् this, महत् great, व्यसनम् calamity, भवितव्यतया because it was destined to happen this way, अस्य this, कुलस्य race's, विनाशाय for destruction, यदृच्छया wilfully, प्राप्तम् has befallen, नूनम् surely.

M N Dutt

Meseems, O charioteer, for the purpose of destroying this line entirely, this mighty disaster has surely befallen us through the influence of Destiny.

Summary

Surely it is destiny and this calamity has befallen for the wilful destruction of the (entire) race, O charioteer

पदच्छेदः

भवितव्यतयाभवितव्यता (३.१)
नूनम्नूनम् (अव्ययः)
इदंइदम् (१.१)
वावा (अव्ययः)
व्यसनंव्यसन (१.१)
महत्महत् (१.१)
कुलस्यास्यकुल (६.१)–इदम् (६.१)
विनाशायविनाश (४.१)
प्राप्तंप्राप्त (√प्र-आप् + क्त, १.१)
सूतसूत (८.१)
यदृच्छयायदृच्छा (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विव्य या नू
मि दं वाव्य नं हत्
कु स्यास्यवि ना शा
प्रा प्तं सू दृच्छ या