२.५३.१८

सूत यद्यस्ति ते किंचिन्मयापि सुकृतं कृतम् ।
त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् ॥

अन्वयः

सूत O Charioteer, मया by me, ते to you, किंचित् even a little, सुकृतम् favour, कृतम् अस्ति यदि if it has been rendered, त्वम् you, आशु quickly, माम् me, रामम् to Rama, प्रापय take, प्राणाः life, माम् me, संत्वरयन्ति are hastening me up.

M N Dutt

O charioteer, if I have ever done you any good do you immediately take me to Rāma: my life urges me on (in this direction).

Summary

O Charioteer, if ever I have rendered you any favour, quickly take me to Rama. My life is hastening me (fast running out).

पदच्छेदः

सूतसूत (८.१)
यद्य्यदि (अव्ययः)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
तेत्वद् (४.१)
किंचिन्कश्चित् (१.१)
मयापिमद् (३.१)–अपि (अव्ययः)
सुकृतंसुकृत (१.१)
कृतम्कृत (√कृ + क्त, १.१)
त्वंत्वद् (१.१)
प्रापयाशुप्रापय (√प्र-आपय् लोट् म.पु. )–आशु (अव्ययः)
मांमद् (२.१)
रामंराम (२.१)
प्राणाःप्राण (१.३)
संत्वरयन्तिसंत्वरयन्ति (√सम्-त्वरय् लट् प्र.पु. बहु.)
माम्मद् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सू द्यस्ति ते किंचि
न्म यापिसुकृ तंकृ तम्
त्वं प्रा याशु मां रा मं
प्रा णाः संत्वन्ति माम्