२.५३.२५

अशोभनं योऽहमिहाद्य राघवं; दिदृक्षमाणो न लभे सलक्ष्मणम् ।
इतीव राजा विलपन्महायशाः; पपात तूर्णं शयने स मूर्छितः ॥

अन्वयः

यः he who, अहम् I, अद्य now, दिदृक्षमाणः wishing to see, सलक्ष्मणम् with Lakshamana, राघवम् Rama, इह here, न लभे unable to get them, अशोभनम् inauspicious, इतीव in this way, महायशाः of great reknown, सः राजा that king, विलपन् lamenting, मूर्छितः lying unconcsious, तूर्णम् immediately, शयने on the bed, पपात fell.

Summary

Though I wish I cannot see Rama together with Lakshmana. Indeed this is very unfortunate. Lamenting thus, king Dasaratha of great reknown fell on the bed, unconscious.

पदच्छेदः

अशोभनंअशोभन (१.१)
योयद् (१.१)
ऽहम्मद् (१.१)
इहाद्यइह (अव्ययः)–अद्य (अव्ययः)
राघवंराघव (२.१)
दिदृक्षमाणोदिदृक्षमाण (१.१)
(अव्ययः)
लभेलभे (√लभ् लट् उ.पु. )
सलक्ष्मणम् (अव्ययः)–लक्ष्मण (२.१)
इतीवइति (अव्ययः)–इव (अव्ययः)
राजाराजन् (१.१)
विलपन्विलपत् (√वि-लप् + शतृ, १.१)
महायशाःमहत्–यशस् (१.१)
पपातपपात (√पत् लिट् प्र.पु. एक.)
तूर्णंतूर्णम् (अव्ययः)
शयनेशयन (७.१)
तद् (१.१)
मूर्छितःमूर्छित (√मूर्छय् + क्त, १.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
शो नं योऽहमि हाद्य रा वं
दि दृक्ष मा णो भेक्ष्म णम्
ती रा जाविन्म हा शाः
पा तू र्णं ने मूर्छि तः