२.५५.१९

तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः ।
न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया ॥

M N Dutt

But you cease to be mine; and Rāma has been sent to the woods. I do not like to go into the forest; so I am entirely undone by you.

पदच्छेदः

तत्रतत्र (अव्ययः)
त्वंत्वद् (१.१)
चैव (अव्ययः)–एव (अव्ययः)
मेमद् (६.१)
नास्ति (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
रामश्राम (१.१)
(अव्ययः)
वनम्वन (२.१)
आश्रितःआश्रित (√आ-श्रि + क्त, १.१)
(अव्ययः)
वनंवन (२.१)
गन्तुम्गन्तुम् (√गम् + तुमुन्)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
सर्वथासर्वथा (अव्ययः)
हिहि (अव्ययः)
हताहत (√हन् + क्त, १.१)
त्वयात्वद् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र त्वं चै मे नास्ति
राश्च माश्रि तः
नंन्तु मि च्छामि
र्व थाहि तात्व या