२.५५.२०

हतं त्वया राज्यमिदं सराष्ट्रं; हतस्तथात्मा सह मन्त्रिभिश्च ।
हता सपुत्रास्मि हताश्च पौराः; सुतश्च भार्या च तव प्रहृष्टौ ॥

M N Dutt

This kingdom, your own kingdom, has been destroyed by you; destroyed are all along with the counsellors; destroyed am I with my son; and destroyed are the citizens: your son and your wife are alone delighted.

पदच्छेदः

हतंहत (√हन् + क्त, १.१)
त्वयात्वद् (३.१)
राज्यम्राज्य (१.१)
इदंइदम् (१.१)
सराष्ट्रं (अव्ययः)–राष्ट्र (१.१)
हतस्हत (√हन् + क्त, १.१)
तथात्मातथा (अव्ययः)–आत्मन् (१.१)
सहसह (अव्ययः)
मन्त्रिभिश्मन्त्रिन् (३.३)
(अव्ययः)
हताहत (√हन् + क्त, १.१)
सपुत्रास्मि (अव्ययः)–पुत्र (१.१)–अस्मि (√अस् लट् उ.पु. )
हताश्हत (√हन् + क्त, १.३)
(अव्ययः)
पौराःपौर (१.३)
सुतश्सुत (१.१)
(अव्ययः)
भार्याभार्या (१.१)
(अव्ययः)
तवत्वद् (६.१)
प्रहृष्टौप्रहृष्ट (√प्र-हृष् + क्त, १.२)

छन्दः

उपेन्द्रवज्रा [११: जतजगग]

छन्दोविश्लेषणम्

१०११
तंत्व या राज्यमि दं रा ष्ट्रं
स्त था त्मान्त्रि भिश्च
ता पु त्रास्मि ताश्च पौ राः
सुश्च भा र्याप्र हृ ष्टौ