२.५५.२१

इमां गिरं दारुणशब्दसंश्रितां; निशम्य राजापि मुमोह दुःखितः ।
ततः स शोकं प्रविवेश पार्थिवः; स्वदुष्कृतं चापि पुनस्तदास्मरत् ॥

M N Dutt

Hearing these words uttered in heart-rending accents, Dasaratha exceedingly distressed, became senseless. And being afflicted with grief, he again remembered his evil act.

पदच्छेदः

इमांइदम् (२.१)
गिरंगिर् (२.१)
दारुणशब्दसंश्रितांदारुण–शब्द–संश्रित (√सम्-श्रि + क्त, २.१)
निशम्यनिशम्य (√नि-शामय् + ल्यप्)
राजापिराजन् (१.१)–अपि (अव्ययः)
मुमोहमुमोह (√मुह् लिट् प्र.पु. एक.)
दुःखितःदुःखित (१.१)
ततःततस् (अव्ययः)
तद् (१.१)
शोकंशोक (२.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
पार्थिवःपार्थिव (१.१)
स्वदुष्कृतंस्व–दुष्कृत (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
पुनस्पुनर् (अव्ययः)
तदास्मरत्तदा (अव्ययः)–अस्मरत् (√स्मृ लङ् प्र.पु. एक.)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
मांगि रं दारुब्द संश्रि तां
निम्य रा जापिमु मो दुःखि तः
तः शो कंप्रवि वे पार्थि वः
स्व दुष्कृ तं चापिपुस्त दास्म रत्