२.५५.५

भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् ।
वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥

अन्वयः

विशालाक्षी largeeyed, सीता Sita, सूपदं शान्वितम् with condiments and soup, शुभम् wellprepared, अशनम् food, भुक्त्वा having partaken, वन्यम् in the forest, नैवारम् made with wild rice, आहारम् food, कथं उपभोक्ष्यते how will she eat?

M N Dutt

Having formerly partaken of (excellent) rice with curries, how will Sita feed on wild rice?

Summary

How can the largeeyed Sita having enjoyed delicious food mixed with condiments and soup now partake the food prepared with wild grains?

पदच्छेदः

भुक्त्वाशनंभुक्त्वा (√भुज् + क्त्वा)–अशन (२.१)
विशालाक्षीविशाल–अक्ष (१.१)
सूपदंशान्वितंसु (अव्ययः)–उपदंश–अन्वित (२.१)
शुभम्शुभ (२.१)
वन्यंवन्य (२.१)
नैवारम्नैवार (२.१)
आहारंआहार (२.१)
कथंकथम् (अव्ययः)
सीतोपभोक्ष्यतेसीता (१.१)–उपभोक्ष्यते (√उप-भुज् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भु क्त्वा नंवि शा ला क्षी
सू दं शान्वि तंशु भम्
न्यं नै वा मा हा रं
थं सी तो भोक्ष्य ते