२.५५.९

वज्रसारमयं नूनं हृदयं मे न संशयः ।
अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ॥

अन्वयः

मे हृदयम् my heart, वज्रसारमयम् is made of thunderbolt, नूनम् surely, संशयः doubt, न not, यत् since, तम् Rama, अपश्यन्त्याः without seeing, इदम् this heart, सहस्रधा thousand pieces, न फलति वै does not shatter.

M N Dutt

Surely my heart, without doubt, is made of the essence of the thunderbolt, since not beholding him, it is not cracked in a thousand fragments.

Summary

No doubt my heart must be made of thunderbolt, since unable to see Rama it does not split into a thousand pieces.

पदच्छेदः

वज्रसारमयंवज्र–सार–मय (१.१)
नूनंनूनम् (अव्ययः)
हृदयंहृदय (१.१)
मेमद् (६.१)
(अव्ययः)
संशयःसंशय (१.१)
अपश्यन्त्याअपश्यत् (६.१)
(अव्ययः)
तंतद् (२.१)
यद्यद् (१.१)
वैवै (अव्ययः)
फलतीदंफलति (√फल् लट् प्र.पु. एक.)–इदम् (१.१)
सहस्रधासहस्रधा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्र सा यं नू नं
हृ यं मे सं यः
श्य न्त्या तं द्वै
ती दंस्र धा