२.५६.४

प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः ।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥

अन्वयः

कौशल्ये O Kausalya, त्वाम् you, प्रसादये be merciful, मया by me, अयम् this, अञ्जलिः folded palms, रचितः set, त्वम् you, परेष्वपि even towards enemies, नित्यम् always, वत्सला is affectionate, अनृशंसा च हि not cruel.

M N Dutt

I deprecate your displeasure. O Kausalyä with joined hands. You are ever affectionate and did not treat harshly even enemies.

Summary

O Kausalya I entreat you with folded palms. Be merciful. Forever affectionate, you are not cruel even towards your enemies.

पदच्छेदः

प्रसादयेप्रसादये (√प्र-सादय् लट् उ.पु. )
त्वांत्वद् (२.१)
कौसल्येकौसल्या (८.१)
रचितोरचित (√रचय् + क्त, १.१)
ऽयंइदम् (१.१)
मयाञ्जलिःमद् (३.१)–अञ्जलि (१.१)
वत्सलावत्सल (१.१)
चानृशंसा (अव्ययः)–अनृशंस (१.१)
(अव्ययः)
त्वंत्वद् (१.१)
हिहि (अव्ययः)
नित्यंनित्यम् (अव्ययः)
परेष्व्पर (७.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र सा ये त्वां कौ ल्ये
चि तो ऽयं याञ्ज लिः
त्स ला चानृ शं सा
त्वंहि नि त्यं रेष्वपि