२.५६.७

तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ॥

अन्वयः

कौशल्या Kausalya, दीनस्य of the wretched, राज्ञः king's, करुणम् pitiable, भाषितम् utterances, तत् वाक्यम् those words, श्रुत्वा having heard, प्रणाली water conduit, नवोदकमिव like discharging fresh rainwater, बाष्पम् tears, व्यसृजत् shed.

M N Dutt

Having heard these piteous words of the distressed king, Kausalyā uttered words even as a water-way lets out fresh accession of rain.

Summary

Kausalya heard the pitiable words uttered by the king who was in a wretched condition. She shed tears like a water channel discharging fresh rainwater.

पदच्छेदः

तद्तद् (२.१)
वाक्यंवाक्य (२.१)
करुणंकरुण (२.१)
राज्ञःराजन् (६.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
दीनस्यदीन (६.१)
भाषितम्भाषित (√भाष् + क्त, २.१)
कौसल्याकौसल्या (१.१)
व्यसृजद्व्यसृजत् (√वि-सृज् लङ् प्र.पु. एक.)
बाष्पंबाष्प (२.१)
प्रणालीवप्रणाली (१.१)–इव (अव्ययः)
नवोदकम्नव–उदक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्वा क्यंरु णं रा ज्ञः
श्रु त्वा दीस्य भाषि तम्
कौ ल्याव्यसृ द्बा ष्पं
प्र णा ली वो कम्