२.५७.३८

इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः ।
तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् ॥

पदच्छेदः

इतीवइति (अव्ययः)–इव (अव्ययः)
वदतःवदत् (√वद् + शतृ, ६.१)
कृच्छ्राद्कृच्छ्र (५.१)
बाणाभिहतमर्मणःबाण–अभिहत (√अभि-हन् + क्त)–मर्मन् (६.१)
तस्यतद् (६.१)
त्व्तु (अव्ययः)
आनम्यमानस्यआनम्यमान (√आ-नम् + शानच्, ६.१)
तंतद् (२.१)
बाणम्बाण (२.१)
अहम्मद् (१.१)
उद्धरम्उद्धरम् (√उत्-हृ लङ् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ती तः कृ च्छ्रा
द्बा णाभिर्म णः
स्य त्वाम्य मास्य
तं बा मुद्ध रम्