२.५७.३९

जलार्द्रगात्रं तु विलप्य कृच्छा;न्मर्मव्रणं संततमुच्छसन्तम् ।
ततः सरय्वां तमहं शयानं; समीक्ष्य भद्रे सुभृशं विषण्णः ॥

M N Dutt

On beholding him with his body dripping with water, and mortally wounded, and breathing hard without respite, after he had bewailed his mortal wound, lying on the banks of the Sarayü, I lamented him and was, O gentle lady, greatly aggrieved.

पदच्छेदः

जलार्द्रगात्रंजल–आर्द्र–गात्र (२.१)
तुतु (अव्ययः)
विलप्यविलप्य (√वि-लप् + ल्यप्)
कृच्छ्रान्कृच्छ्र (५.१)
मर्मव्रणंमर्मन्–व्रण (२.१)
संततम्संततम् (अव्ययः)
उच्छ्वसन्तम्उच्छ्वसत् (√उत्-श्वस् + शतृ, २.१)
ततःततस् (अव्ययः)
सरय्वांसरयू (७.१)
तम्तद् (२.१)
अहंमद् (१.१)
शयानंशयान (√शी + शानच्, २.१)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
भद्रेभद्र (८.१)
सुभृशंसु (अव्ययः)–भृशम् (अव्ययः)
विषण्णःविषण्ण (√वि-सद् + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
लार्द्र गा त्रंतुविप्य कृ च्छा
न्म र्मव्र णं सं मुच्छ न्तम्
तः य्वां हं या नं
मीक्ष्य द्रेसुभृ शंवि ण्णः