२.५७.८

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारः शब्दवेधीति मया पापमिदं कृतम् ।
तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् ॥

अन्वयः

कौशल्ये O Kausalya, शब्दवेधी one who can shoot arrows aiming at the target by sound, कुमारः इति in chidhood itself, लब्धशब्देन attaining knowledge of sound, कुमारेण in my youth, धनुष्मता as an archer, मया by me, इदम् this, पापम् sin, कृतम् was done.

M N Dutt

Having, O Kausalyā, earned the expression, 'The Prince can pierce his aim by sound alone,', I, a prince and bowman, did this offence.

Summary

O Kausalya in my youth I was a great archer who could hit the target by its sound. As such I committed this sin.

पदच्छेदः

लब्धशब्देनलब्ध (√लभ् + क्त)–शब्द (३.१)
कौसल्येकौसल्या (८.१)
कुमारेणकुमार (३.१)
धनुष्मताधनुष्मत् (३.१)
कुमारःकुमार (१.१)
शब्दवेधीतिशब्दवेधिन् (१.१)–इति (अव्ययः)
मयामद् (३.१)
पापम्पाप (१.१)
इदंइदम् (१.१)
कृतम्कृत (√कृ + क्त, १.१)
तद्तद् (१.१)
इदंइदम् (१.१)
मेमद् (६.१)
ऽनुसंप्राप्तंअनुसंप्राप्त (√अनुसंप्र-आप् + क्त, १.१)
देविदेवी (८.१)
दुःखंदुःख (१.१)
स्वयंस्वयम् (अव्ययः)
कृतम्कृत (√कृ + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
ब्ध ब्दे कौ ल्येकु मा रे
नुष्म ताकु मा रःब्द वे धीति
या पामि दंकृ तम्दि दं मे
ऽनु सं प्रा प्तं देवि दुः खंस्व यंकृ तम्