२.५८.२५

तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ ।
निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् ॥

अन्वयः

तपस्विनौ both the ascetics, तौ both, तम् their, आत्मनः own, पुत्रम् son, आसाद्य having approached, स्पृष्टवा having touched, अस्य his, शरीरे on body, निपेततुः fell, अस्य his, पिता च father, इदम् this way, अब्रवीत् spoke.

M N Dutt

And having approached their son and touched him, ascetics fell on his person, and then his father addressed him thus.

Summary

Both the ascetics stroking their son's body and collapsed upon it. And the father said:

पदच्छेदः

तौतद् (१.२)
पुत्रम्पुत्र (२.१)
आत्मनःआत्मन् (६.१)
स्पृष्ट्वास्पृष्ट्वा (√स्पृश् + क्त्वा)
तम्तद् (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
तपस्विनौतपस्विन् (१.२)
निपेततुःनिपेततुः (√नि-पत् लिट् प्र.पु. द्वि.)
शरीरेशरीर (७.१)
ऽस्यइदम् (६.१)
पितापितृ (१.१)
चास्येदम् (अव्ययः)–इदम् (६.१)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तौ पुत्र मात्म नः स्पृ ष्ट्वा
मा साद्यस्वि नौ
नि पे तुः री रेऽस्य
पि ता चा स्येब्र वीत्