२.५८.३४

अपापोऽसि यथा पुत्र निहतः पापकर्मणा ।
तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥

अन्वयः

पुत्र O son, पापकर्मणा by a person of sinful deeds, निहतः killed, यथा just as, अपापः असि you are sinless, तेन that, सत्येन with truth, शस्त्रयोधिनाम् those who fight with weapons, ये whichever, लोका: worlds, आशु quickly, गच्छ go.

Summary

'O sinless son, you are killed by a person of sinful deeds. On this truth, quickly go to those worlds which are attained by those valiant heroes.

पदच्छेदः

अपापोअपाप (१.१)
ऽसिअसि (√अस् लट् म.पु. )
यथायथा (अव्ययः)
पुत्रपुत्र (८.१)
निहतःनिहत (√नि-हन् + क्त, १.१)
पापकर्मणापाप–कर्मन् (३.१)
तेनतद् (३.१)
सत्येनसत्य (३.१)
गच्छाशुगच्छ (√गम् लोट् म.पु. )–आशु (अव्ययः)
येयद् (१.३)
लोकाःलोक (१.३)
शस्त्रयोधिनाम्शस्त्र–योधिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पा पोऽसि था पुत्र
नि तः पार्म णा
ते त्ये च्छाशु
ये लो काःस्त्र योधि नाम्