२.५८.३५

यान्ति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः ।
हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ॥

अन्वयः

पुत्र son, सङ्ग्रामेषु in wars, अनिवर्तिनः the men who do not retreat, शूराः warriors, अभिमुखाः याम् facing the enemy, गतिम् ultimate state, यान्ति will attain, ताम् that one, परमाम् supreme, गतिम् state, व्रज attain.

पदच्छेदः

यान्तियान्ति (√या लट् प्र.पु. बहु.)
शूराशूर (१.३)
गतिंगति (२.१)
यांयद् (२.१)
(अव्ययः)
संग्रामेष्व्संग्राम (७.३)
अनिवर्तिनःअनिवर्तिन् (१.३)
हतास्हत (√हन् + क्त, १.३)
त्व्तु (अव्ययः)
अभिमुखाःअभिमुख (१.३)
पुत्रपुत्र (८.१)
गतिंगति (२.१)
तांतद् (२.१)
परमांपरम (२.१)
व्रजव्रज (√व्रज् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यान्ति शू रा तिं यां
सं ग्रा मेष्वनिर्ति नः
तास्त्वभिमु खाः पुत्र
तिं तां मांव्र