२.५८.३८

गोसहस्रप्रदातॄणां या या गुरुभृतामपि ।
देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ।
न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम् ॥

पदच्छेदः

गोसहस्रप्रदातॄणांगो–सहस्र–प्रदातृ (६.३)
यायद् (१.१)
यायद् (१.१)
गुरुभृताम्गुरु–भृत् (६.३)
अपिअपि (अव्ययः)
देहन्यासकृतांदेह–न्यास–कृत् (६.३)
यायद् (१.१)
(अव्ययः)
तांतद् (२.१)
गतिंगति (२.१)
गच्छगच्छ (√गम् लोट् म.पु. )
पुत्रकपुत्रक (८.१)
(अव्ययः)
हिहि (अव्ययः)
त्व्तु (अव्ययः)
अस्मिन्इदम् (७.१)
कुलेकुल (७.१)
जातोजात (√जन् + क्त, १.१)
गच्छत्य्गच्छति (√गम् लट् प्र.पु. एक.)
अकुशलांअकुशल (२.१)
गतिम्गति (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
गो स्रप्र दा तॄ णां या यागुरु
भृ तापि दे न्याकृ तां या
तां तिंच्छ पुत्र हि त्वस्मि
न्कु ले जा तो च्छत्यकु लां तिम्