२.५८.४५

त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः ।
तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥

अन्वयः

त्वया by you, अविज्ञानात् in ignorance, मे my, शुचिः purehearted, सुतः son, यत् since, निहतः was killed, तेन therefore, त्वाम् you, सुदुःखम् deeply sorrowful, अतिदारुणम् extremely dreadful, अभिशप्स्यामि I will curse.

Summary

'Though you have killed my purehearted son unintentionally, I will pronounce a disastrous and dreadful curse on you.

पदच्छेदः

त्वयात्वद् (३.१)
तुतु (अव्ययः)
यद्यत् (अव्ययः)
अविज्ञानान्अविज्ञान (५.१)
निहतोनिहत (√नि-हन् + क्त, १.१)
मेमद् (६.१)
सुतःसुत (१.१)
शुचिःशुचि (१.१)
तेनतेन (अव्ययः)
त्वाम्त्वद् (२.१)
अभिशप्स्यामिअभिशप्स्यामि (√अभि-शप् लृट् उ.पु. )
सुदुःखम्सु (अव्ययः)–दुःख (२.१)
अतिदारुणम्अति (अव्ययः)–दारुण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्व यातु वि ज्ञा ना
न्नि तो मेसु तःशु चिः
ते त्वाभि प्स्यामि
सु दुःति दारु णम्