२.६.२१

अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः ।
ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥

अन्वयः

यः that king, आत्मानम् himself, वृद्धम् aged, ज्ञात्वा having realised, रामम् to Rama, राज्ये in the kingdom, अभिषेक्ष्यति is going to install, अयम् this, इक्ष्वाकुकुलनन्दनः causing delight to the Ikshvaku race, राजा king , महात्मा highsouled, अहो oh.

Summary

Oh having realised that he himself has grown old the highsouled king Dasaratha the veritable delight to the Ikshvaku race, is going to coronate Rama in the kingdom.

पदच्छेदः

अहोअहो (अव्ययः)
महात्मामहत्–आत्मन् (१.१)
राजायम्राजन् (१.१)–इदम् (१.१)
इक्ष्वाकुकुलनन्दनःइक्ष्वाकु–कुल–नन्दन (१.१)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
योयद् (१.१)
वृद्धम्वृद्ध (२.१)
आत्मानंआत्मन् (२.१)
रामंराम (२.१)
राज्येराज्य (७.१)
ऽभिषेक्ष्यतिअभिषेक्ष्यति (√अभि-सिच् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हो हा त्मा रा जा
मि क्ष्वाकुकुन्द नः
ज्ञा त्वा यो वृद्ध मा त्मा नं
रा मं रा ज्येऽभि षेक्ष्यति