२.६.२५

एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।
दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥

अन्वयः

श्रुतवृत्तान्ताः having heard the story, दिग्भ्यः अपि from all quarters also, प्राप्ताः had arrived, जानपदाः जनाः village folk, तदा then, एवं विधम् in this manner, पौराणाम् of citizens, कथयताम् while conversing, शुश्रुवुः heard.

Summary

Having heard about the coronation of Rama, villagers arrived from all directions and listened to the citizens conversing in this manner.

पदच्छेदः

एवंविधंएवंविध (२.१)
कथयतांकथयत् (√कथय् + शतृ, ६.३)
पौराणांपौर (६.३)
शुश्रुवुस्शुश्रुवुः (√श्रु लिट् प्र.पु. बहु.)
तदातदा (अव्ययः)
दिग्भ्योदिश् (५.३)
ऽपिअपि (अव्ययः)
श्रुतवृत्तान्ताःश्रुत (√श्रु + क्त)–वृत्तान्त (१.३)
प्राप्ताप्राप्त (√प्र-आप् + क्त, १.३)
जानपदाजानपद (१.३)
जनाःजन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंवि धं तां
पौ रा णां शुश्रु वुस्त दा
दि ग्भ्यो ऽपिश्रु वृ त्ता न्ताः
प्रा प्ता जा दा नाः