२.६.८

तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा ।
अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥

अन्वयः

अथ then, तेषाम् their, गम्भीरमधुरः deep and sweet, पुण्याहघोषः proclamations of 'this is an auspicious day', तूर्यघोषानुनादितः reverberating with the sounds of trumpets, तदा then, अयोध्याम् (the city of) Ayodhya, पूरयामास filled.

Summary

And then the deep and sweet proclamations of 'This is an auspicious day' mingled with the sounds of trumpets reverberated (the city of) Ayodhya.

पदच्छेदः

तेषांतद् (६.३)
पुण्याहघोषोपुण्य–अह–घोष (१.१)
ऽथअथ (अव्ययः)
गम्भीरमधुरस्गम्भीर–मधुर (१.१)
तदातदा (अव्ययः)
अयोध्यांअयोध्या (२.१)
पूरयामासपूरयामास (√पूरय् प्र.पु. एक.)
तूर्यघोषानुनादितःतूर्य–घोष–अनुनादित (√अनु-नादय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षां पु ण्या घो षोऽथ
म्भीधुस्त दा
यो ध्यां पू या मा
तूर्य घो षानु नादि तः